श्री
गणपति अर्थवशीर्ष
ऊँ
भद्रम् कर्णेभिः इति शान्ति ;
ऊँ
हरि ऊँ नमस्ते गणपतये त्वम् एव प्रत्यक्षं
तत् त्वम् असि, त्वम् एव केवलम् कर्तासि, त्वम् एव केवलम् धर्तासि, त्वम् एव केवलम्
हर्तासि, त्वम् एव सर्वम् खलु इदम् ब्रह्मासि , त्वम् साक्षात् आत्मासि नित्यम् , ऋतम्
वच्मि , सत्यम् वच्मि, अव त्वम् माम् , अव वक्तारम् अव श्रोतारम् , अव दातारम् , अव
धातारम् , अवान् उचानम् अव शिष्यम् ,अव पश्चातात् , अव पुरस्तात् , अव च उत्तरातात्
, अव दक्षिणातात् , अव च उर्ध्वातात् , अव अधरातात् , सर्वतो माम् पाहि पाहि समन्तात्,
त्वम् वाड़्मयः, त्वम् चिन्मयः, त्वम् आनन्दमयः, त्वम् ब्रह्ममयः , त्वम् सच्चिदानन्द
अद्वितीयो असि , त्वम् प्रत्यक्षम् ब्रह्मासि, त्वम् ज्ञानमयो विज्ञानमयो असि , सर्वम्
जगत् इदम् त्वत्तो जायते, सर्वम् जगत् इदम् त्वत्तः तिष्ठति , सर्वम् जगत् इदम् त्वयि
लयम् एष्यति , सर्वम् जगत् इदम् त्वयि प्रत्येति, त्वम् भूमिः आपो अनलो अनिलो नभः,
त्वम् चत्वारि वाक् पदानि, त्वम् गुणत्रयातीतः , त्वम् काल त्रयातीतः , त्वम् देह त्रयातीतः
, त्वम् मूलाधार स्थितो असि नित्यम्, त्वम् शक्ति त्रयात्मकः , त्वम् योगिनो ध्यायन्ति
नित्यम् , त्वम् ब्रह्मा, त्वम् विष्णुः त्वम् रुद्रः त्वम् इन्द्रः त्वम् अग्निः त्वम्
वायुः त्वम् सूर्यः त्वम् चन्द्रमाः त्वम् ब्रह्मः भूर्भुवः सुवरोम् ,गणादि पूर्वम् उच्चार्य वर्णादि
तद् अनन्तरम् , अनुस्वारः पतरः , अर्धेन्दु लसितम् । तारेण रुद्धम् , एतद् तव मनुष्यरुपम्
। गकारः पूर्व रुपम्, अकारो मध्यम् रुपम् , अनुस्वारः च अन्त्यरुपम्, बिन्दुः उत्तररुपम्,
नादः सन्धानम्, संहिता सन्धिः । स एषा गणेश विद्या । गणक ऋषि ; निवृद गायत्री छन्दः श्री महा गणपति दैवता
।ऊँ गं । गणपतये नमः । एकदन्ताय विद महे वक्र तुण्डाय धीमहि , तन्नो दन्ति प्रचोदयात्
। एकदन्तम् चतुर्हस्तम् पाशम् अंकुश धारिणम् । अभयं वरदं हस्तैः बिभ्राणं मूषकध्वजम्
।रक्तं लम्बोदरं शूर्पकर्णकं रक्त वाससम् । रक्त गन्धानु लिप्ताड्गं रक्त पुष्पैः
सुपूजितम् । भक्तानु कम्पिनं दैवं जगत् कारणम् उच्युतं । आविर्भूतं च सृष्टयादौ प्रकृते; पुरुषात् परम् । एवं ध्यायन्ति यो नित्यं
स योगी योगिनां वरः । नमो व्रातपतये नमो गणपतये नमः प्रमथ पतये नमस्ते अस्तु लम्बोदराय
ऐकदन्ताय विघ्न विनाशिने शिवसुताय श्री वरद मूर्तये नमो नमः । एदत अथर्वशिरो यो अधीते
स ब्रह्म भूयाय कल्पते । स सर्व विघ्नैः न बाध्यते । स सर्वतः सुखम् एधते । स पण्च
महा पातकोप पातकात् प्रमुच्यते । सायम धीयानो दिवस कृतं पापं नाशयति । सायं प्रातः
प्रयुण्जानो अपापो भवति । धर्मार्थ काम मोक्षं च विन्दति । इदम् अथर्वशीर्षं अशिष्याय
न देयम् । यो यदि मोहाद् दास्यति स पापीयान् भवति । सहस्त्र आवर्त नाद्यं यं कामं अधीते
तं तम् अनेन साधयेत । अनेन गणपतिम् अभिषिण्चति स वाग्मी भवति । चतुर्थ्याम् अनश्नण्जपति
स विद्यावान भवति । इति अथर्वण वाक्यम् ।ब्रह्माद्या चरणं विद्यात् । न बिभेति कदाचनेति
। यो दुर्वाड़्कुरैः यजति स वैश्रवणोपमो भवति । यो लाजै; यजति स यशोवान भवति । स मेधावान्
भवति । यो मोदक सहस्त्रेण यजति । स वाण्छितफलम् अवाप्नोति । यः साज्य समिद्भिः यजति
स सर्वम् लभते । अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्य वर्चस्वी भवति । सूर्यग्रहे
महानद्यां प्रतिमासंनिधौ वा जपत्वा सिद्ध मन्त्रो भवति । महाविघ्नात् प्रमुच्यते ।
महापापात् प्रमुच्यते । महादोषात् प्रमुच्यते । स सर्व विद् भवति । स सर्व विद् भवति
। य एवम् वेद । ऊँ भद्रड़्कर्णेभिः इति शान्तिः ।
इति श्री गणपति
अथर्वशीर्षम्
No comments:
Post a Comment